|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.29. अध्यायः 029
Mahabharata - Karna Parva - Chapter Topics
दुर्योधनप्रार्थितेन शल्येन समयकरणपूर्वकं कर्णरथसारथ्यस्वीकरणम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
दुर्योधन उवाच। 8-29-0x(4902)(56293)
एवं स भगवान्देवः सर्वलोकपितामहः।
सारथ्यमकरोत्तत्र ब्रह्मा रुद्रोऽभवद्रथी॥ 8-29-1(56294)
रथिनोऽभ्यधिको वीर कर्तव्यो रथसारथिः।
तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि॥ 8-29-2(56295)
यथा देवगणैस्तत्र वृतो यत्नात्पितामहः।
तथाऽस्माभिर्भवान्यत्नात्कर्णादभ्यधिको वृतः॥ 8-29-3(56296)
यथा देवैर्महाराज ईश्वरादधिको वृतः।
तथा देवैर्महाराज क्षिप्रं रुद्रस्यव पितामहः।
नियच्छ तुरगान्युद्वे राधेयस्य महाद्युते॥ 8-29-4(56297)
शल्य उवाच। 8-29-5x(4903)
मयाप्येतन्नरश्रेष्ठ बहुशो नरसिंहयोः।
कथ्यमानं श्रुतं दिव्यमाख्यानमतिमानुषम्॥ 8-29-5(56298)
यथा च चक्रे सारथ्यं भवस्य प्रपितामहः।
यथाऽसुराश्च निहता इषुणैकेन भारत॥ 8-29-6(56299)
कृष्णस्य चापि विदितं सर्वमेतत्पुरा ह्यभूत्॥ 8-29-7(56300)
यथा पितामहो जज्ञे भगवान्सारथिस्तदा।
अनागतमतिक्रान्तं वेद कृष्णोऽपि तत्त्वतः॥ 8-29-8(56301)
एतदर्थं विदित्वाऽपि सारथ्यमुपजग्मिवान्।
स्वयम्भूरिव रुद्रस्य कृष्णः पार्थस्य भारत॥ 8-29-9(56302)
यदि हन्याच्च कौन्तेयं सूतपुत्रः कथञ्चनः।
दृष्ट्वा पार्थं हि निहतं स्वयं योत्स्यति केशवः॥ 8-29-10(56303)
शङ्खचक्रगदापाणिर्धक्ष्यते तव वाहिनीम्।
न चापि तस्य क्रुद्धस्य वार्ष्णेयस्य महात्मनः।
स्थास्यते प्रत्यनीकेषु कश्चिदत्र नृपस्तव॥ 8-29-11(56304)
सञ्जय उवाच। 8-29-12(56305)
तं तथा भाषमाणं तु मद्रराजमरिन्दमः।
प्रत्युवाच महाबाहुरदीनात्मा सुतस्तव॥ 8-29-12(56306)
मावमंस्था महाबाहो कर्णं वैकर्तनं रणे।
सर्वशस्त्रभृतां श्रेष्ठं सर्वशास्त्रार्थपरागम्॥ 8-29-13(56307)
यस्य ज्यातलनिर्घोषं श्रुत्वा भयकरं महत्।
पाण्डवेयानि सैन्यानि विद्रवन्ति दिशो दश॥ 8-29-14(56308)
प्रत्यक्ष ते महाबाहो यथा रात्रौ घटोत्कचः।
मायाशतानि कुर्वाणो हतो मायापुरस्कृतः॥ 8-29-15(56309)
न चातिष्ठत बीभत्सुः प्रत्यनीके कथञ्चन।
एतांश्च दिवसान्सर्वान्भयेन महता वृतः॥ 8-29-16(56310)
भीमसेनश्च बलवान्धनुष्कोट्याभिचोदितः।
उक्तश्च संज्ञया राजन्मूढ औदरिको यथा॥ 8-29-17(56311)
माद्रीपुत्रौ तथा शूरौ येन जित्वा महारणे।
कमप्यर्थं पुरस्कृत्य न हतौ युधि मारिष॥ 8-29-18(56312)
येन वृष्णिप्रवीरस्तु सात्यकिः सात्वतां वरः।
निर्जित्य समरे शूरो विस्थश्च बलात्कृतः॥ 8-29-19(56313)
सृञ्जयाश्चेतरे सर्वे धृष्टद्युम्नपुरोगमाः।
असकृन्निर्जिताः सङ्ख्ये स्मयमानेन संयुगे॥ 8-29-20(56314)
तं कथं पाण्डवा युद्वे विजेष्यन्ति महारथम्।
यो हन्यात्समरे क्रुद्वो वज्रहस्तं पुरन्दरम्॥ 8-29-21(56315)
त्वं च सर्वास्त्रविद्वीरः सर्वविद्यास्त्रपारगः।
बाहुवीर्येण ते तुल्यः पृथिव्यां नास्ति कश्चन॥ 8-29-22(56316)
त्वं शल्यभूतः शत्रूणामविषह्यः पराक्रमे।
ततस्त्वमुच्यसे राजञ्शल्य इत्यरिसूदन॥ 8-29-23(56317)
तव बाहुबलं प्राप्य न शेकुः सर्वसात्वताः।
तव बाहुबलाद्राजन्किं नु कृष्णो बलाधिकः॥ 8-29-24(56318)
यथा हि कृष्णेन बलं धार्यं वै फल्गुने हते।
तथा कर्णात्ययीभावे त्वया धार्यं महद्बलम्॥ 8-29-25(56319)
किमर्थं समरे सैन्यं वासुदेवो न्यवारयत्।
किमर्थं च भवान्सैन्यं न हनिष्यति मारिष॥ 8-29-26(56320)
त्वत्कृते पदवीं गन्तुमिच्छेयं युधि मारिष।
सोदराणां च वीराणां सर्वेषां च महीक्षिताम्॥ 8-29-27(56321)
शल्य उवाच। 8-29-28x(4904)
यन्मां ब्रवीषि गान्धारे अग्रे सैन्यस्य मानद।
विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि॥ 8-29-28(56322)
एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः।
युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे॥ 8-29-29(56323)
समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति।
उत्सृजेयं यथाश्रद्वमहं वाचोऽस्य सन्निधौ॥ 8-29-30(56324)
सञ्जय उवाच। 8-29-31x(4905)
तथेति राजन्पुत्रस्ते सह कर्णेन मारिष।
अब्रवीत्मद्रराजानं सर्वक्षत्रस्य सन्निधौ॥ 8-29-31(56325)
सारथ्यस्याभ्युपगमाच्छल्येनाश्वासितस्तदा।
दुर्योधनस्तदा हृष्टः कर्णं तमभिषस्वजे॥ 8-29-32(56326)
अब्रवीच्च पुनः कर्णं स्तूयमानः सुतस्तव।
जहि पार्थान्रणे सर्वान्महेन्द्रो दानवानिव॥ 8-29-33(56327)
स शल्येनाभ्युपगते हयानां सन्नियच्छने।
कर्णो हृष्टमना भूयो दुर्योधनभाषत॥ 8-29-34(56328)
नातिहृष्टमना ह्येष मद्रराजोऽभिभाषते।
राजन्मधुरया वाचा पुनरेनं ब्रवीहि वै॥ 8-29-35(56329)
ततो राजा महाप्राज्ञः सर्वास्त्रकुशलो बली।
दुर्योधनोऽब्रवीच्छल्यं मद्रराजं महीपतिम्॥ 8-29-36(56330)
पूरयन्निव घोषेण मेघगम्भीरया गिरा।
शल्य कर्णोऽर्जुनेनाद्य योद्वव्यमिति मन्यते॥ 8-29-37(56331)
तस्य त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि।
कर्णो हत्वेतरान्सर्वान्फल्गुनं हन्तुमिच्छति।
तस्याभीषुग्रहे राजन्प्रयाचे त्वां पुनः पुनः॥ 8-29-38(56332)
पार्थस्य सचिवः कृष्णो यथाऽभीषुग्रहो वरः।
तथा त्वमपि राधेयं सर्वतः परिपालय॥ 8-29-39(56333)
सञ्जय उवाच। 8-29-40x(4906)
ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत्।
दुर्योधनममित्रघ्नं प्रीतो मद्राधिपस्तदा॥ 8-29-40(56334)
शल्य उवाच। 8-29-41x(4907)
एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन।
तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम्॥ 8-29-41(56335)
यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित्।
तत्र सर्वात्मना युक्तो वक्ष्ये कार्यं परन्तप॥ 8-29-42(56336)
यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रिये।
मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः॥ 8-29-43(56337)
कर्ण उवाच। 8-29-44x(4908)
ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः।
तथा नित्यं हिते युक्तो मद्रराज भवस्व नः॥ 8-29-44(56338)
शल्य उवाच। 8-29-45x(4909)
आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः।
अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम्॥ 8-29-45(56339)
यत्तु विद्वन्प्रवक्ष्यामि प्रxxxxयार्थमहं तव।
आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम्॥ 8-29-46(56340)
अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो।
अप्रमादात्प्रयोगाच्च ज्ञानविद्याचिकित्सनैः॥ 8-29-47(56341)
ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ।
वाहयिष्यामि तुरगान्विज्वरो भव सूतज॥ ॥ 8-29-48(56342)
इति श्रीमन्महाभारते कर्णपर्वणि एकोनत्रिंशोऽध्यायः॥ 29 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-29-5 नरसिंहयोः कृष्णार्जुनयोः। अतस्तयोः साम्यं मम कीर्तिकरमेवेति भावः। सुरसिंहयोरिति पाठे रुद्रपितामहयोः॥ 8-29-26 किमर्थमिति। सारथ्यामात्रं प्रतिज्ञाय प्रातिभट्यं चेत्कृष्णः कुर्यात्तर्हि त्वं युध्यन् तद्वन्मिथ्याप्रतिज्ञो न भविष्यसीति भावः॥ 8-29-27 पदवीमानृण्यम्॥ 8-29-42 वक्ष्ये वोढास्मि॥ 8-29-45 आत्म निन्दापरस्तवावपि श्रेयस। निन्द्यौ किमुतात्मपूजापरनिन्दे। तदुभयमहं करोमीति भावः॥ 8-29-47 अप्रमादोऽवधानम्। प्रयोगोऽश्वप्रेरणम्। ज्ञानमागामिदोषावेक्षणम्। विद्या तत्परिहारज्ञानम्। चिकित्सनं दोषपरिहारसामर्थ्यम्॥ 8-29-29 एकोनत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|